(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Aadiparv (Mahabharat) - आदिपर्व (महाभारत)


॥ श्रीः ॥
1.237. अध्यायः 237
Mahabharata - Adi Parva - Chapter Topics
प्रसादितेन ब्राह्मणेन कृतस्य शापमोचनप्रकारस्य, नारदनिदेशेनैतत्तीर्थागमनस्य च अर्जुनंप्रति वर्गया कथनम्॥ 1 ॥ एतत्कथां श्रुतवता अर्जुनेन ग्राहरूपाणाभवशिष्टानां चतसृणामप्यप्सरसां तत्तत्तीर्थेभ्य उद्धरणेन तासां स्वस्वरूपप्राप्तिः॥ 2 ॥ पुनर्मणलूरमागत्य तत्र चित्राङ्गदायां जातं बभ्रुवाहननामानं स्वपुत्रं च स्वश्वशुरे समर्प्य अर्जुनस्य गोकर्णक्षेत्रगमनम्॥ 3 ॥
Mahabharata - Adi Parva - Chapter Text

वर्गोवाच। 1-237-0x(1278)(10231)
ततो वयं प्रव्यथिताः सर्वा भारतसत्तम।
अयाम शरणं विप्रं तं तपोधनमच्युतम्॥ 1-237-1(10232)
रूपेण वयसा चैव कन्दर्पेण च दर्पिताः।
अयुक्तं कृतवत्यः स्म क्षन्तुमर्हसि नो द्विज॥ 1-237-2(10233)
एष एव वधोऽस्माकं स्वयं प्राप्तस्तपोधन।
यद्वयं संशितात्मानं प्रलोब्धुं त्वामिहागताः॥ 1-237-3(10234)
अवध्यास्तु स्त्रियः सृष्टा मन्यन्ते धर्मचारिणः।
तस्माद्धर्मेण वर्ध त्वं नास्मन्हिंसितुमर्हसि॥ 1-237-4(10235)
सर्वभूतेषु धर्मज्ञ मैत्रो ब्राह्मण उच्यते।
सत्यो भवतु कल्याण एष वादो मनीषिणाम्॥ 1-237-5(10236)
शरणं च प्रपन्नानां शिष्टाः कुर्वन्ति पालनम्।
शरणं त्वां प्रपन्नाः स्म तस्मात्त्वं क्षन्तुमर्हसि॥ 1-237-6(10237)
वैशम्पायन उवाच। 1-237-7x(1279)
एवमुक्तः स धर्मात्मा ब्राह्मणः शुभकर्मकृत्।
प्रसादं कृतवान्वीर रविसोमसमप्रभः॥ 1-237-7(10238)
ब्राह्मण उवाच। 1-237-8x(1280)
शतं शतसहस्रं तु सर्वमक्षय्यवाचकम्।
परिमाणं शतं त्वेतन्नेदमक्षय्यवाचकम्॥ 1-237-8(10239)
यदा च वो ग्राहभूता गृह्णन्तीः पुरुषाञ्जले।
उत्कर्षति जलात्तस्मात्स्थलं पुरुषसत्तमः॥ 1-237-9(10240)
तदा यूयं पुनः सर्वाः स्वं रूपं प्रतिपत्स्यथ।
अनृतं नोक्तपूर्वं मे हसतापि कदाचन॥ 1-237-10(10241)
तानि सर्वाणि तीर्थानि ततः प्रभृति चैव ह।
नारीतीर्थानि नाम्नेह ख्यातिं यास्यन्ति सर्वशः।
पुण्यानि च भविष्यन्ति पावनानि मनीषिणां॥ 1-237-11(10242)
वर्गोवाच। 1-237-12x(1281)
ततोऽभिवाद्य तं विप्रं कृत्वा चापि प्रदक्षिणम्।
अचिन्तयामोऽपसृत्य तस्माद्देशात्सुदुःखिताः॥ 1-237-12(10243)
क्व नु नाम वयं सर्वाः कालेनाल्पेन तं नरम्।
समागच्छेम यो नस्तद्रूपमापादयेत्पुनः॥ 1-237-13(10244)
ता वयं चिन्तयित्वैव मुहूर्तादिव भारत।
दृष्टवत्यो महाभागं देवर्षिमुत नारदम्॥ 1-237-14(10245)
संप्रहृष्टाः स्म तं दृष्ट्वा देवर्षिममितद्युतिम्।
अभिवाद्य च तं पार्थ स्थिताः स्म व्रीडिताननाः॥ 1-237-15(10246)
स नोऽपृच्छद्दुःखमूलमुक्तवत्यो वयं च तम्।
श्रउत्वा तत्र यथावृत्तमिदं वचनमब्रवीत्॥ 1-237-16(10247)
दक्षिणे सागरानूपे पञ्च तीर्थानि सन्ति वै।
पुण्यानि रमणीयानि तानि गच्छत मा चिरं॥ 1-237-17(10248)
तत्राशु पुरुषव्याघ्रः पाण्डवेयो धनञ्जयः।
मोक्षयिष्यति शुद्धात्मा दुःखादस्मान्न संशयः॥ 1-237-18(10249)
`इत्युक्त्वा नारदः सर्वास्तत्रैवान्तरधीयत।'
तस्य सर्वा वयं वीर श्रुत्वा वाक्यमितो गताः।
तदिदं सत्यमेवाद्य मोक्षिताहं त्वयाऽनघ॥ 1-237-19(10250)
एतास्तु मम ताः सख्यश्चतस्रोऽन्या जले श्रिताः।
कुरु कर्म शुभं वीर एताः सर्वा विमोक्षय॥ 1-237-20(10251)
वैशम्पायन उवाच। 1-237-21x(1282)
ततस्ताः पाण्डवश्रेष्ठः सर्वा एव विशांपते।
`अवगाह्य च तत्तीर्थं गृहीतो ग्राहिभिस्तदा॥ 1-237-21(10252)
ग्राहीभिश्चोत्तताराशु तरयामास तत्क्षणात्।
सा चाप्सरा बभूवाशु सर्वाभरणभूषिता॥ 1-237-22(10253)
एवं क्रमेण ताः सर्वा मोक्षयामास वीर्यवान्॥' 1-237-23(10254)
उत्थाय च जलात्तस्मात्प्रतिलभ्य वपुः स्वकम्।
तास्तदाऽप्सरसो राजन्नदृश्यन्त यथा पुरा॥ 1-237-24(10255)
तीर्थानि शोधयित्वा तु तथानुज्ञाय ताः प्रभुः।
चित्राङ्गदां पुनर्द्रष्टुं मणलूरं पुनर्ययौ॥ 1-237-25(10256)
तस्यामजनयत्पुत्रं राजानं बभ्रुवाहनम्।
तं दृष्ट्वा पाण्डवो राजंश्चित्रवाहनमब्रवीत्॥ 1-237-26(10257)
चित्राङ्गदायाः शुल्कं त्वं गृहाण बभ्रुवाहनम्।
अनेन च भविष्यामि ऋणान्मुक्तो नराधिप॥ 1-237-27(10258)
चित्राङ्गदां पुनर्वाक्यमब्रवीत्पाण्डुनन्दनः।
इहैव भव भद्रं ते वर्धेथा बभ्रुवाहनम्॥ 1-237-28(10259)
इन्द्रपस्थनिवासं मे त्वं तत्रागत्य रंस्यसि।
कुन्ती युधिष्ठिरं भीमं भ्रातरौ मे कनीयसौ॥ 1-237-29(10260)
आगत्य तत्र पश्येथा अन्यानपि च बान्धवान्।
बान्धवैः सहिताः सर्वैर्नन्दसे त्वमनिन्दिते॥ 1-237-30(10261)
धर्मे स्थितः सत्यधृतिः कौन्तेयोऽथ युधिष्ठिरः।
जित्वा तु पृथिवीं सर्वां राजसूयं करिष्यति॥ 1-237-31(10262)
तत्रागच्छन्ति राजानः पृथिव्यां नृपसंज्ञिताः।
बहूनि रत्नान्यादाय आगमिष्यति ते पिता॥ 1-237-32(10263)
एकसार्थं प्रयातासि चित्रवाहनसेवया।
द्रक्ष्यामि राजसूये त्वां पुत्रं पालय मा शुचः॥ 1-237-33(10264)
बभ्रुवाहननाम्ना तु मम प्राणो बहिश्चरः।
तस्माद्भरस्व पुत्रं वै पुरुषं वंशवर्धनम्॥ 1-237-34(10265)
चित्रावाहनदायादं धर्मात्पौरवनन्दनम्।
पाण्डवानां प्रियं पुत्रं तस्मात्पालय सर्वदा॥ 1-237-35(10266)
विप्रयोगेण संतापं मा कृथास्त्वमनिन्दिते।
चित्राङ्गदामेवमुक्त्वा `सागरानूपमाश्रितः॥ 1-237-36(10267)
स्थानं दूरं समाप्लुत्य दत्त्वा बहुधनं तदा।
केरलान्समतिक्रम्य' गोकर्णमभितोऽगमत्॥ 1-237-37(10268)
आद्यं पशुपतेः स्थानं दर्शनादेव मुक्तिदम्।
यत्र पापोऽपि मनुजः प्राप्नोत्यभयदं पदम्॥ ॥ 1-237-38(10269)

इति श्रीमन्महाभारते आदिपर्वणि अर्जुनवनवासपर्वणि सप्तत्रिंशदधिकद्विशततमोऽध्यायः॥ 237 ॥

Mahabharata - Adi Parva - Chapter Footnotes
1-236-4 वर्ध वर्धस्व॥ सप्तत्रिंशदधिकद्विशततमोऽध्यायः॥ 237 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.